Friday, May 2, 2014

संगणकं तु यन्त्रमेव --द्वितीयः खण्डः

द्वितीयः खण्डः -
संगणकं तु यन्त्रमेव

संगणकस्य विषये प्रथमं तु एतदेव ज्ञातव्यं यत् संगणकं तु यन्त्रमेव | प्रतिदिनं वयं कतिपयानि तु यन्त्राणि पश्यामः तेषाम् उपयोगमपि कुर्मः | द्विचक्रिकया वयं नातिपरिश्रमेण अत्रतत्र गन्तुं शक्नुमः | विद्युद्भारवाहकेन चलत्समयदर्शकमपि यन्त्रमेकम् | शीतपेटिका, दूरदर्शनम्, चलितभाषम्, उद्वाहकम्, उदंचकम्, कारयानम्, एतानि सर्वाणि यन्त्राण्येव | यत्किमपि मनुजस्य कार्यं सुलभीकरोति तत्सर्वं यन्त्रम् |

तथापि संगणकं यन्त्रं मायावी भवति, यतः तत् कयाचित् बुद्ध्या चलति | अस्ति वा तस्य मस्तिष्कम् ? अस्ति, तथापि तस्य मस्तिष्कं तत्रस्थिता बुद्धिरपि यान्त्रिकी अस्ति |

तस्य बुद्ध्याः उपयोगेन संगणकं लेखनं, पठनं, गानं, चलच्च्चित्रदर्शनं, आदीन्यपि कर्माणि कर्तुं शक्नोति | संगणकं अस्माभिः सह बुद्धिद्यूतमपि खेलति | संगणकस्य उपयोगेन वयं सुदूरस्थितेन मित्रेण सह संभाषणमपि कर्तुं शक्नुमः | संगणकं क्लिष्टानां गणितसमस्यानां समाधाने सहाय्यकं भवति |

चन्द्रमसं गन्तुं वा मङ्गलपरिभ्रमणाय ये मानवनिर्मिताः उपग्रहाः नियोजिताः भवन्ति, तेषां संचालननियमनमपि संगणकेनैव भवति |
(यथा श्रीपादेनानुवादितम् - १७ एप्रिल २०१४)

No comments: