Friday, May 2, 2014

किम् संगणकं तु युक्तियुतं ऐन्द्रजालम् ?-- तृतीयः खण्डः

तृतीयः खण्डः
किम् संगणकं तु युक्तियुतं ऐन्द्रजालम् ?


संगणकं यावद्विधानि कार्याणि करोति, तेषु युक्तयः युज्यन्ते एव | केऽपि जनाः आश्चर्यचकिताः भवन्ति कथं एतदशक्यप्रायं कार्यं संपन्नमिति | केन कृतमिदं कार्यम् ? विचारयन्त्यपि कदाचित् अस्त्यत्र घनान्धतमे व्याहरन् कोऽपि निशाटः | निशाटाः सर्वेषां कृते भयास्पदाः | यदि वयं कस्मिन्श्चित् अन्धकारयुते  कोष्ठे स्मः तदा अस्माकं मनसि निशाटविषयकाः विचाराः आगच्छन्ति | तैः विचारैरपि वयं भीताः भवामः | भीतेः निवारणाय सरलः उपायः अस्ति, वातायनम् उद्घाट्य वा प्रकाशचालकं कुत्रास्ति तदन्विष्य कोष्ठे प्रकाशः करणीयः | प्रकाशे जाते भीतिः क्षणैकस्मिन् पलायते |
संगणकसंचालने मनसि भीतिः अजानतयैव भवति | आशंकाः भवन्ति, कस्यचित् अयुक्तस्य पिञ्चस्य चालने किञ्चिद्विपरीतं न भवेदिति | भीतिरस्ति, संगणकं बाधितं भवति चेत् रोषायैव तत् |
अस्याः भीतेः विषये प्रथमतः ज्ञातव्यं यत् अयुक्तस्य कस्यचित् पिञ्चस्य उपयोगेन संपूर्णम् संगणकं निरुपयोगि भवति एवं प्रायः न भवति |


तथापि संगणकस्य निश्चिताः चलनविधयः भवन्त्येव | विधेः योग्यमनुसरणं न भवति चेत् संगणकम् अग्रे नैव गच्छति | एतावत्यवसरे यथातथा कृत्वापि यदि न किञ्चिल्लाभः, तदा वैफल्याद्वयं पुनरपि संगणकं किञ्चिन्निशाटं मन्यामहे |


संगणकस्य संचालने कतिचित् पूर्वज्ञानम् तु आवश्यकम् | कानि लक्ष्यानि प्राप्तव्यानि, तेभ्यः संगणकस्य क्रियाः केन क्रमेण कारणीयाः, एतज्ज्ञानं नैव गहनम्, सरलमेव | प्रारंभात्पूर्वं प्रायः नैव ज्ञायते कतिसरलमिति |

द्वित्रिप्रयोगैः ज्ञातुं शक्नुमः संगणकस्य क्लृप्तयः | सत्यमेव यत् संगणकस्य संचालनस्य क्लृप्तयः तु सन्ति एव | एतदपि सत्यं यत् संगणकम् इति न कश्चिन्निशाटः | तत्तु कश्चित् इन्द्रजालिकः | तस्य क्लृप्तयः अस्माभिः ज्ञातव्याः |
निशाटस्य भीतिं मनसः निष्कासयितुं एकः अन्यः उपायः अपि भवति | सः उपायः अस्ति कस्यचिन्मित्रस्य सहाय्यम् | तद्वदेव संगणकस्य क्लृप्तीः कस्माच्चिन्मित्रात् जानीमः चेत् भीतये अवसरः एव न भवति |

यदि अस्माभिः मित्रात् ज्ञायन्ते क्लृप्तयः कर्तव्यं भवति अस्माकमपि यद्वयमपि कमपि पाठयामः |

(यथा श्रीपादेनानुवादितम् - २८ एप्रिल २०१४)

संगणकं तु यन्त्रमेव --द्वितीयः खण्डः

द्वितीयः खण्डः -
संगणकं तु यन्त्रमेव

संगणकस्य विषये प्रथमं तु एतदेव ज्ञातव्यं यत् संगणकं तु यन्त्रमेव | प्रतिदिनं वयं कतिपयानि तु यन्त्राणि पश्यामः तेषाम् उपयोगमपि कुर्मः | द्विचक्रिकया वयं नातिपरिश्रमेण अत्रतत्र गन्तुं शक्नुमः | विद्युद्भारवाहकेन चलत्समयदर्शकमपि यन्त्रमेकम् | शीतपेटिका, दूरदर्शनम्, चलितभाषम्, उद्वाहकम्, उदंचकम्, कारयानम्, एतानि सर्वाणि यन्त्राण्येव | यत्किमपि मनुजस्य कार्यं सुलभीकरोति तत्सर्वं यन्त्रम् |

तथापि संगणकं यन्त्रं मायावी भवति, यतः तत् कयाचित् बुद्ध्या चलति | अस्ति वा तस्य मस्तिष्कम् ? अस्ति, तथापि तस्य मस्तिष्कं तत्रस्थिता बुद्धिरपि यान्त्रिकी अस्ति |

तस्य बुद्ध्याः उपयोगेन संगणकं लेखनं, पठनं, गानं, चलच्च्चित्रदर्शनं, आदीन्यपि कर्माणि कर्तुं शक्नोति | संगणकं अस्माभिः सह बुद्धिद्यूतमपि खेलति | संगणकस्य उपयोगेन वयं सुदूरस्थितेन मित्रेण सह संभाषणमपि कर्तुं शक्नुमः | संगणकं क्लिष्टानां गणितसमस्यानां समाधाने सहाय्यकं भवति |

चन्द्रमसं गन्तुं वा मङ्गलपरिभ्रमणाय ये मानवनिर्मिताः उपग्रहाः नियोजिताः भवन्ति, तेषां संचालननियमनमपि संगणकेनैव भवति |
(यथा श्रीपादेनानुवादितम् - १७ एप्रिल २०१४)

संगणकम् इति किम् ?--- प्रथमः खण्डः

हिन्दी में नहीं- पर संस्कृत में एक कोश अवश्य लिखा गया है-
नाम- संस्कृत-सङ्गणक-शब्दकोशः
Sanskrit Dictionary of Computers
लेखक- श्रीकान्तः जमदग्निः
सम्पादकः- श्रीनिवास वरखेडी
मुद्रणं- संस्कृतपरिषद् (आदर्शशोधसंस्थान)
Sanskrit Academy (Series-68)
उस्मानिया विश्वविद्यालयः
हैदराबाद -2009
मूल्य-175रू.
Phone- 040-27070281
प्रथमः खण्डः
संगणकम् इति किम् ?
अयं संगणक-शब्दः तु प्रायः न कस्मायपि नवीनः | 
सर्वैः प्रायः दृष्टमस्ति संगणकसाधनम् | 
कैः तु तस्य उपयोजनमपि कृतं भवति |

तथा सत्यपि कमपि वयं पृच्छामः “संगणकम्  इति किम् ?” 
तदा समीचीनं उत्तरं प्राप्नुयामः एव इति निश्चयेन वक्तुं न शक्नुमः | संगणकस्य उपयोजनविषयेऽपि बहवः जनाः अयथावदेव जानन्ति |

यैः संगणकम्  दूरतः एव दृष्टम् भवति, तेषां बहूनां मनस्यागच्छति, अलमहमेतस्मादिति | 
अन्ये प्रायः विचारयन्ति कतिचिदधिकमेव भवेदस्य मूल्यमिति |

ये संगणकेनैव कर्माणि कुर्वन्ति, ते प्रायः हसन्ति |

अतः वक्तुं शक्नुमः यत् संगणकम् एकस्मिन्नेव समये केभ्यः अतिसरलम्, 
केभ्यः गहनम्, केभ्यः अप्रशस्तम्, केभ्यः आवश्यकम् |

आश्चर्यमपि यदेतावति विचारभेदे कस्यापि विद्वत्तायाः न कोऽपि संबन्धः !!!
(यथा श्रीपादेनानुवादितम् - १२ एप्रिल २०१४)