तृतीयः खण्डः
किम् संगणकं तु युक्तियुतं ऐन्द्रजालम् ?
संगणकं यावद्विधानि कार्याणि करोति, तेषु युक्तयः युज्यन्ते एव | केऽपि जनाः आश्चर्यचकिताः भवन्ति कथं एतदशक्यप्रायं कार्यं संपन्नमिति | केन कृतमिदं कार्यम् ? विचारयन्त्यपि कदाचित् अस्त्यत्र घनान्धतमे व्याहरन् कोऽपि निशाटः | निशाटाः सर्वेषां कृते भयास्पदाः | यदि वयं कस्मिन्श्चित् अन्धकारयुते कोष्ठे स्मः तदा अस्माकं मनसि निशाटविषयकाः विचाराः आगच्छन्ति | तैः विचारैरपि वयं भीताः भवामः | भीतेः निवारणाय सरलः उपायः अस्ति, वातायनम् उद्घाट्य वा प्रकाशचालकं कुत्रास्ति तदन्विष्य कोष्ठे प्रकाशः करणीयः | प्रकाशे जाते भीतिः क्षणैकस्मिन् पलायते |
संगणकसंचालने मनसि भीतिः अजानतयैव भवति | आशंकाः भवन्ति, कस्यचित् अयुक्तस्य पिञ्चस्य चालने किञ्चिद्विपरीतं न भवेदिति | भीतिरस्ति, संगणकं बाधितं भवति चेत् रोषायैव तत् |
अस्याः भीतेः विषये प्रथमतः ज्ञातव्यं यत् अयुक्तस्य कस्यचित् पिञ्चस्य उपयोगेन संपूर्णम् संगणकं निरुपयोगि भवति एवं प्रायः न भवति |
तथापि संगणकस्य निश्चिताः चलनविधयः भवन्त्येव | विधेः योग्यमनुसरणं न भवति चेत् संगणकम् अग्रे नैव गच्छति | एतावत्यवसरे यथातथा कृत्वापि यदि न किञ्चिल्लाभः, तदा वैफल्याद्वयं पुनरपि संगणकं किञ्चिन्निशाटं मन्यामहे |
संगणकस्य संचालने कतिचित् पूर्वज्ञानम् तु आवश्यकम् | कानि लक्ष्यानि प्राप्तव्यानि, तेभ्यः संगणकस्य क्रियाः केन क्रमेण कारणीयाः, एतज्ज्ञानं नैव गहनम्, सरलमेव | प्रारंभात्पूर्वं प्रायः नैव ज्ञायते कतिसरलमिति |
द्वित्रिप्रयोगैः ज्ञातुं शक्नुमः संगणकस्य क्लृप्तयः | सत्यमेव यत् संगणकस्य संचालनस्य क्लृप्तयः तु सन्ति एव | एतदपि सत्यं यत् संगणकम् इति न कश्चिन्निशाटः | तत्तु कश्चित् इन्द्रजालिकः | तस्य क्लृप्तयः अस्माभिः ज्ञातव्याः |
निशाटस्य भीतिं मनसः निष्कासयितुं एकः अन्यः उपायः अपि भवति | सः उपायः अस्ति कस्यचिन्मित्रस्य सहाय्यम् | तद्वदेव संगणकस्य क्लृप्तीः कस्माच्चिन्मित्रात् जानीमः चेत् भीतये अवसरः एव न भवति |
यदि अस्माभिः मित्रात् ज्ञायन्ते क्लृप्तयः कर्तव्यं भवति अस्माकमपि यद्वयमपि कमपि पाठयामः |
(यथा श्रीपादेनानुवादितम् - २८ एप्रिल २०१४)